________________
स्वोपज्ञलघुवृत्तिः।
४७९ आभ्यां मत्वर्थे तः स्यात् । मरुत्तः। मरुत्वान् । पर्वतः। पर्ववान्॥१५॥ वलिवटितुण्डेर्भः । ७।२।१६।। एभ्यो मत्वर्थे भः स्यात् । वलिभः । वटिभः। तुण्डिभः । वलिवान् । ऊर्णाहंशुभमो युस् । ७।२।१७।।
एभ्यो मत्वेऽर्थे युस्स्यात् । ऊर्णायुः । अहंयुः । शुभंयुः ॥ १७ ॥ कंशंभ्यां युस्तियस्तुतवभम् । ७॥२॥१८॥ . आभ्यां मत्वर्थे एते स्युः । कंयुः । शंयुः । कतिः । शंतिः । कंयः । शंयः । कंतुः। शंतुः । कंतः। शंतः । कंवः। शवः । कंभः। शंभः॥१८॥ बलवातदन्तललाटादूलः । ७।२।१९।
एभ्यो मत्वर्थे उलः स्यात् । बलूलः । वातूलः । दन्तूलः । ललाटूला । बलवान् ॥ १९॥
प्राण्यङ्गादातोलः।७।२।२० । प्राण्यङ्गार्थादादन्तान्मत्वर्थे लः स्यात् । चूडाला । चूडावान् । प्राण्यङ्गादिति किम् । जङ्घावान् प्रासादः ॥ २० ॥ सिध्मांदिक्षुद्रजन्तुरुग्भ्यः।७।।२१।
सिध्मादेः क्षुद्रजन्त्वगुगाच्च मत्वर्थे लः स्यात् । सिध्मलः । सिध्मवान् । वर्मलः । यूकालः । मूछालः ॥ २१ ॥ प्रज्ञापर्णोदकफेनाल्लेलौ ।७।२।२२।
एभ्यो मत्वर्थे लेलौ स्याताम् । प्रज्ञाल। प्रज्ञिलः । पर्णलः । पर्णिलः । उदकलः । उदकिलः । फेनलः । फेनिलः । फेनवान् ॥ २२॥ कालाजटाघाटात क्षेपे ।७।२।२३। .