SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४७१ स्वोपज्ञलघुवृत्तिः। अधिकं तत्सङ्ख्यमस्मिन् शतसहस्रे शतिशदशान्ताया डः।७।१।१५४। स्यन्ताच्छत्याद्यन्तात्सङ्ख्यार्थादस्मिन्निति ड्यर्थे शतसहस्रे च डः स्यात् । स्यन्तं चेदधिकम् शतादिसङ्ख्यं च वस्तु स्यात् । विशं योजनशतं योजनसहस्रं वा । एवं त्रिंशम् । एकादशम् । तत्संख्यमिति किम् । विंशतिर्दण्डा अधिका अस्मिन् योजनशते ॥१५४॥ सङ्ख्यापूरणे डट् । ७।१।१५५ । सङ्ख्यापूर्यते येन तत्रार्थे सङ्ख्याया डट् स्यात् । एकादशी । सङ्ख्यति किम् । एकादशानामुष्ट्रिकाणां पूरणो घटः ॥ १५५ ॥ विंशत्यादेर्वा तमट । ७।१।१५६ । अस्याः सङ्ख्यायाः सङ्ख्यापूरणे तमट् वा स्यात् । विंशतितमः । विंशः । त्रिंशत्तमः । त्रिंशः ॥१५६ ॥ शतादिमासार्द्धमाससंवत्सरात् ।७।१।१५७। शतादेः सङ्ख्यामा मासादेश्च सङ्ख्यापूरणे तमट् स्यात् । शततमी । सहस्रतमी । मासतमः । अर्द्धमासतमः । संवत्सरतमः दिनः ॥ षष्ट्यादेरसङ्ख्यादेः।७।१।१५८ । सङ्ख्यादिरवयवो यस्य तदर्जात्षष्ट्यादेः सङ्ख्यापूरणे तमट् स्यात्। पष्टितमः । सप्ततितमः । असङ्ख्यादेरिति किम् । एकषष्टः ॥ १५८ ॥ नो मट । ७।१।१५९ । असङ्ख्यादेनीन्तायाः सङ्ख्यायाः सङ्ख्यापूरणे मट् स्यात् । पञ्च मी । असह्यादरित्येव । द्वादशः ॥ १५९ ॥ पित्तिथट् बहुगणपूगसंघात् ।७।१।१६०।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy