SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ १७. हैमशन्दानुशासनस्य । शनशतिशतिभ्यः स्यन्तेभ्यो मानार्थेभ्यः षष्ठ्यर्थे डिन् स्यात् । पञ्चदश्यर्द्धमासः । त्रिंशी मासः । विंशिनो भवनेन्द्राः ॥ १४७ ॥ इदं किमोऽतुरियकिय चास्य ।।१।१४८। आभ्यां मानार्थाभ्यां षष्ठ्यर्थे मेयेऽतुः स्यात् । तद्योगे चानयोर्यथासङ्ख्यमियकियौ स्याताम् । इयान् । कियान पटः ॥ १४८ ॥ यत्तदेतदोर्डावादिः । ७।१।१४९। एभ्यः स्यन्तेभ्यो मानार्थेभ्यो षष्ठ्यर्थे मेयेऽतु वादिः स्यात् । यावान् । तावान् । एतावान् धान्यराशिः ॥ १४९ ॥ यत्तत्किमः सङ्ख्याया डति।७॥१५॥ सङ्ख्यारूपं यन्मानं तदर्थेभ्य एभ्यः स्यन्तेभ्यः षष्ठ्यर्थे सङ्ख्येये डतिर्वा स्यात् । यति यावन्तः । एवं तति तावन्तः। कति । कियन्तः॥१५०॥ अवयवात्तयट् । ७।१।१५१ । । अवयववृत्तेः सङ्ख्यार्थात् स्यन्तात्षष्ठयर्थे ऽवयविनि तयद स्यात् । पञ्चतयो यमः ॥ १५१॥ हित्रिभ्यामयट् वा।७।१।१५२। आभ्यामवयवार्थाभ्यां स्यन्ताभ्यां षष्ठयर्थेऽयट् वा स्यात् । दयम् । द्वितयम् । त्रयम् । त्रितयम् ॥ १५२ ॥ यादेर्गुणान्मूल्यक्रेये मयट्।७।१।१५३। यादेर्गुणवृत्तेः स्यन्तात् षष्ठ्यर्थे मयट् स्यात् । यादिश्चेन्मूल्यार्थः क्रयार्थो वा । दिमयमुदश्विद्यवानाम् । एवं त्रिमयं दिमया यवा उदश्वितः। एवं त्रिमयाः। गुणादिति किम् । द्वौ व्रीहियवौ मूल्यमस्य॥१५३॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy