________________
खोपज्ञलघुवृत्तिः। हस्तिपुरुषाद्वाण । ७।१। १४१ ।
स्यन्ताम्यां प्रमाणार्थाभ्यामाभ्यां षष्ठ्यर्थे ऽण् वा स्यात् । हास्तिनम्। हस्तिमात्रम् । हस्तिदनम् । हस्तिद्वयसं जलम् । एवं पौरुषम् ॥ १४१॥
वोर्द्ध दनवयसट् । ७।१।१४२।
ऊर्द्धम् यत्प्रमाणं तदर्थात्स्यन्तात् षष्ठ्यर्थे वैतौ स्याताम् । ऊरुदनम् । ऊरुद्धयसम् । ऊरुमात्रं जलम् । अर्द्धमिति किम् । रज्जुमात्रीमः॥१४२॥ __मानादसंशये लुप् ।७।१।१४३।
मानार्थ एव साक्षाद्यः प्रमाणशब्दो हस्तवितस्त्यादिर्नतु रज्वादिः। तस्मात्प्रस्तुतस्य मात्रडादेरसंशये गम्ये लुप् स्यात्। हस्तः। वितस्तिः । मानादिति किम् । ऊरुमात्र जलम् । असंशयइति किम् । शममात्र स्यात् ॥ १४३ ॥
द्विगोः संशये च। ७।१।१४४।
मानान्ताद्विगोः संशयेऽसंशये च प्रस्तुतमात्रडादेर्लुप् स्यात् । द्विवितस्तिः । द्विप्रस्थः स्यात् ॥ १४४ ॥
मात्रट । ७।१।१४५। स्यन्तान्मानार्थात् षष्ठ्यर्थे मात्र स्यात संशये। प्रस्थमात्र स्यात् ।
शनशहिंशतः। ७।१।१४६।
शनन्ताच्छदन्ताच्च सङ्ख्यार्थाविंशतेश्च मानवृत्तेः स्यन्तात षष्ठ्यर्थे मात्रट् स्यात् संशये । दशमात्राः स्युः । एवं त्रिंशन्मात्राः । विंशतिमात्राः ॥ १४६ ॥
डिन् । ७।१।१४७।