SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४६८ हैमशब्दानुशासनस्य पशुभ्यः स्थाने गोष्ठः ।७।१।१३३। पश्वर्थेभ्यः षष्ठ्यन्तेभ्यः स्थानेऽर्थे गोष्ठः स्यात् । गोगोष्ठम् । असगोष्ठम् ।। १३३ ॥ द्वित्वे गोयुगः । ७।१।१३४ । पश्वर्षेभ्यस्तस्य द्वित्वेऽर्थे ऽयं स्यात् । गोगोयुगम् ॥ १३४॥ षट्त्वे षड्गवः । ७।१।१३५ । पश्चर्येभ्यस्तस्य षट्त्वेऽयं स्यात् । हस्तिषड्गवम् ॥ १३५॥ तिलादिभ्यः स्नेहे तैलः। ७।१।१३६ । एभ्यस्तस्य स्नेहेऽर्थे तैलः स्यात् । तिलतैलम् । सर्षपतैलम् ॥१३६॥ तत्र घटते कर्मणष्ठः । ७।१।१३७॥ तत्रेति जयन्तात्कर्मशब्दाघटते इत्यर्थे ठः स्यात् । कर्मठ॥१३७॥ . तदस्य संञ्जातं तारकादिभ्य इतः । ७।१।१३८ । · तदिति स्यन्तेभ्य एभ्योऽस्येति षष्ठ्यर्थे इतः स्यात् । स्यन्तं सञ्जातं चेत् । तारकितं नमः। पुष्पितस्तरुः ॥ १३८॥ गर्भादप्राणिनि । ७।१। १३९ । ___गर्भासदस्य सञ्जातमित्यर्थे इतः स्यात् । नतु पाणिनि । गार्भितो बीहिः ॥ १३९॥ प्रमाणान्मात्रट् । ७।१।१४० । स्यन्तात्प्रमाणार्थात् षष्ठ्यर्थे मात्रद स्यात् । आयामः प्रमाणम् । जानुमात्रं जलम् । तन्मात्री भूः ॥ १४० ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy