SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। ४६७ नासानतितद्वतोष्टीटनाटभ्रटम् ।७।१।१२। अवान्नासानतौ तदति चार्थे एते स्युः । अवटीटम् । अवनाटम् । अवभ्रटं नासानमनम् । तद्वदा नासादि ॥ १२७॥ नेरिनपिटकाश्चिकचिचिकश्चा स्य। ७।१।१२८ । ने सानतौ तदति चार्थे एते स्युः तद्योगे च नेर्यथासङ्ख्यं चिक्चिचिकः । चिकिनम् । चिपिटम् । चिक्कं नासानमनं नासादि च॥१२८॥ विडविसिौ नीरन्ध्रे च।७।१।१२९। नेीरन्धेऽर्थे नासानतितद्धतोश्च एतौ स्याताम् । निविडाः । निविरीसाः केशाः । निविडम् । निविरीसं नासानमनं नासादि च॥ १२९ ॥ क्लिन्नाल्लश्चक्षुषि चिल्पिल्चुल् चास्य ।७।१।१३० । क्लिन्नाचक्षुष्यर्थे लः स्यात् । तद्योगे चास्य चिल्पिलचुलः । चिल्लम् । पिल्लम् । चुलं चक्षुः ॥ १३०॥ उपत्यकाधित्यके।७।१।१३१ । . एतौ निपात्येते । उपत्यका गिर्यासन्ना भूः। अधित्यका पर्वताधिरूढा भूः ॥ १३१॥ अवेस्संघातविस्तारे कटपटम् । ७७१।१३२। अवरात्षष्ठयन्तात्संघाते विस्तारे चार्थे यथासङ्ख्यं कटपटौ स्याताम् । अविकटः संघातः । अविपटः विस्तारः॥ १३२ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy