SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ हैमशन्दानुशासनस्य एभ्यस्तस्य तुल्येऽण् स्यात् । शार्करं दधि। कापालिकम् ॥ ११८॥ अः सपत्न्याः । ७।१।११९। अस्मात्तस्य तुल्ये अः स्यात् । सपनः ॥ ११९ ॥ एकशालाया इकः । ७।१।१२० । अस्मात्तस्य तुल्ये इकः स्यात् । एकशालिकम् ॥ १२० ॥ गोण्यादेश्चेकण । ७।१।१२१ । एभ्यः एकशालायाश्च तस्य तुल्ये इकण स्यात् । गौणिकम् । आङ्गुलिकम् । एकशालिकम् ।। १२१ ॥ कर्कलोहिताट्टीकण च । ७।१।१२२ । आभ्यां तस्य तुल्ये टीकणिकण च स्यात् । कार्कीकः । कार्किकः। लोहितीकः । लोहितिकः ॥ १२२ ॥ वेर्विस्तृते शालशङ्कटौ। ७।१।१२३। वेर्विस्तृतेऽर्थे शालशङ्कटौ स्याताम् । विशालः । विशङ्कटः ॥१२३॥ कटः । ७।१।१२४ । वेविस्तृतेऽर्थे कटः स्यात् । विकटः ॥ १२४ ॥ संप्रोन्नेः संकीर्णप्रकाशाधिकस मीपे । ७।१।१२५। एभ्यो यथासङ्ख्यमेष्वर्थेषु कटः स्यात् । सङ्कटः । प्रकटः । उत्कटः। निकटः ॥ १२५ ॥ __ अवात्कुटारश्चावनते ।७।१।१२६। अवांदवनतेऽर्थे कुटारः कटश्च स्यात् । अवकुटारः । अवकटः॥१२६॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy