________________
स्वोपज्ञवृत्तिः
अपण्ये जीवने । ७ । १ । ११० ।
जीव्यते येन तस्मिन् पण्यवर्जे को न स्यात् । शिवः । अपण्यइति किम् । हस्तिकान् विक्रीणीते ॥ ११० ॥
४६५
देवपथादिभ्यः । ७ । १ । १११ ।
एम्यस्तुल्ये संज्ञाप्रतिकृत्योः को न स्यात् । देवपथः । हंसपथः॥ १११ ॥ बस्तेरेयञ । ७। १ । ११२ ।
aederer तुल्येऽर्थे यञ् स्यात् । बास्तेयी प्रणालिका ॥ ११२ ॥ शिलाया एयच्च । ७।१।११३।
अस्मासस्य तुल्येऽर्थे एयच् एयञ् च स्यात् । शिलेयम् । शैलेयं दधि ॥ ११३ ॥
शाखादेर्यः । ७ । १ । ११४ ।
एभ्यस्तस्य तुल्ये यः स्यात् । शाख्यः । मुख्यः ॥ ११४ ॥
द्रोर्भव्ये । ७ । १ ।
११५ ।
द्रोस्तस्य तुल्ये भव्येऽर्थे यः स्यात् । द्रव्यमयं ना स्वर्णादि च ॥ कुशाग्रादीयः । ७ ।
१ । ११६ । अस्मात्तस्य तुल्ये ईयः स्यात् । कुशाग्रीया बुद्धिः ॥ ११६॥ काकतालीयादयः । ७। १ । ११७।
एते तस्य तुल्येयान्ताः साधवः स्युः । काकतालीयम् । खलति - बिल्लीयम् ॥ ११७ ॥
शर्करादेरण । ७ । १ । ११८ ।