SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४६४ हैमशब्दानुशासनस्थ अभ्यमित्रमीयश्च । ७।१।१०४। अस्मादमन्तादलं गामिनि ईयोयेनौ च स्याताम् । अभ्यमित्रीयः। अभ्यमित्र्यः । अभ्यमित्रीणः ॥ १०४ ॥ समांसमीनाद्यश्वीनाद्यप्रातीनाऽऽगवीनसा प्तपदीनम् । ७।१।१०५। एते ईनान्ता निपात्याः।साप्तपदीनस्त्वीनत्रन्तः। समांसमीना गौः। अद्यश्वीना गौः । अद्यप्रातीना लाभः । आगवीनः कर्मकृत् । साप्तपदीनं सख्यम् ॥ १०५॥ अषडक्षाशितंग्वलङ्कालंपुरुषा दीनः । ७।१।१०६। एभ्यः स्वार्थे ईनः स्यात् । अषडक्षीणो मन्त्रः। आशितंगतीनं अरण्यम् । अलङ्कर्मीणः । अलंपुरुषीणः ॥ १०६ ॥ अदिकस्त्रियां वाञ्चः।७।१।१०७। अञ्चत्यन्तात्स्वार्थे ईनो वा स्यात् । नचेद् स दिशि स्त्रियाम् । प्राचीनम् । प्राक । प्राचीना शाखा । प्राची । अदिस्त्रियामिति किम् । प्राची दिक् ॥ १०७ ॥ तस्य तुल्ये कः संज्ञाप्रतिकृत्योः।७।१।१०८। तस्येतिषष्ठयन्तात्तुल्येऽर्थे कः स्यात् संज्ञायां प्रतिकृतौ च विषये । अश्वकः । अश्वकं रूपम् ॥ १०९॥ न नृपूजार्थध्वजचित्रे।७।१।१०९। नरि पूजार्थे धजे चित्रकर्मणि चार्थे को न स्यात्। चञ्चाना । अईन्। धजे सिंहः। चित्रे भीमः ॥ १०९ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy