SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । ४६३. आपदामादापदम् । अस्मादमन्ताद्यानोतीत्यर्थे ईनः स्यात् । आप्रपदीनः पटः ॥ ९५॥ अनुपदं बद्धा । ७ । १ । ९६ । अस्मादमन्ताद्बद्धेत्यर्थे ईनः स्यात् । अनुपदीनोपानत् ॥ ९६ ॥ अयानयं नेयः । ७ । १ । ९७ । अस्माद्वितीयान्तान्नेयेऽर्थे ईनः स्यात् । अयानयीनः शारः ॥ ९७ ॥ सर्वान्नमत्ति । ७ । १ । ९८ । अस्मादन्नन्तादत्त्यर्थे ईनः स्यात् । सर्वान्नीनो भिक्षुः ॥ ९८ ॥ परोवरीणपरंपरीणपुत्रपौत्रीणम् | ७|१ | ९९| एतेऽनुभवत्यर्थे नान्ता निपात्याः । परोवरीणः । परंपरीणः । पुत्रपौत्रीणः ॥ ९९ ॥ यथाकामानुकामात्यन्तं गामिनि । ७।१।१००। एभ्यो ऽमन्तेभ्यो गामिन्यर्थे ईनः । स्यात् । यथाकामीनः । अनुकामीनः । अत्यन्तीनः ॥ १०० ॥ पारावारं व्यस्तव्यत्यस्तं च । ७।१।१०१। अस्मात्समस्ताव्यस्ताद्व्यत्यस्ताच्चामन्ताद्गामिनीनः स्यात् । पारावारीणः । पारीणः । अवारीणः । अवारपारीणः ॥ १०१ ॥ अनुग्वलम् । ७ । १ । १०२ । अस्मादमन्तादलं गामिनीनः स्यात् । अनुगवीनो गोपः ॥१०२॥ अध्वानं येनौ । ७ । १ । १०३ । अस्मादमन्तादलङ्गामिनि येमौ स्याताम् । अध्वन्यः । अध्वनीनः ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy