________________
४६२
हैमशब्दानुशासनस्य
एभ्यस्तस्य मूलेऽर्थे जाहः स्यात् । कर्णजाहम् । अक्षिजाहम् ॥ ८८ ॥ पक्षात्तिः । ७ । १ । ८९ ।
पक्षात्तस्य मूलेऽर्थे तिः स्यात | पक्षतिः ॥ ८९ ॥
हिमालः सहे । ७ । १ । ९० ।
हिमात्तस्य सहमानेऽर्थे एलुः स्यात् । हिमेलुः ॥ ९० ॥ बलवातादूलः । ७। १ । ९१ । आभ्यां तस्य सहेऽर्थे ऊलः स्यात् । बहूलः । वातूलः ॥ ९१ ॥
शीतोष्णतृषादालुरसहे । ७।१। ९२ ।
एभ्यस्तस्यासंहेऽर्थे आलुः स्यात् । शीतालुः । उष्णालुः । तृषालुः।।
यथामुखसंमुखादीनस्तद्दृश्यते ऽस्मिन् । ७ । १ । ९३ ।
आभ्यां तदिति स्यन्ताभ्यामस्मिन्नितिङयर्थे ईनः स्यात् । स्यन्तं चेदृश्यते । यथामुखं प्रतिबिम्बम् । यथामुखीनः आदर्शः । एवं संमुखीनः ॥ ९३ ॥
सर्वादेः पथ्यंगकर्मपत्र पात्रशरावं व्या
प्नोति । ७ । १ । ९४ ।
सर्वशब्दपूर्वेभ्य एभ्यो द्वितीयान्तेभ्यो व्याप्नोतीत्यर्थे ईनः स्यात् । सर्वपथीनो रथः । सर्वाङ्गीणस्तापः । सर्वकर्मीणो ना । सर्वपत्रीणी यन्ता । सर्वपात्रीणं भक्तम् । सर्वशरावीणं ओदनम् ॥ ९४ ॥
आप्रपदम् । ७ । १ । ९५ ।