________________
स्वोपज्ञलघुवृत्तिः।
४६१ व्रीहिशालेरेयण् । ७।१।८० । आभ्यं तास्य क्षेत्र एयण स्यात् । हेयम् । शालेयम् ॥ ८०॥
यवयवकषष्टिकाद्यः ।७।१।८१। एभ्यस्तस्य क्षेत्र यः स्यात् । यव्यम् । यवक्यम् । षष्टिक्यम् ॥ ८॥
वाणुमाषात् ।७।१।८२।। आभ्यां तस्य क्षत्रे या वा स्यात् । अणव्यम् । आणवीनम् ।माष्यम्। माषीणम् ॥ ८२ ॥
वोमाभङ्गतिलात् । ७।१।८३।
एभ्यस्तस्य क्षेत्रर्थे यो वा स्यात् । उम्यम । औमीनम् । मंग्यम् । भांगीनम् । तिल्यम् । तैलीनम् ॥ ८३ ॥ अलाब्वाश्च कटोरजसि । ७।१।८४।
आस्मादुमादेश्च तस्य रजस्यर्थे कटः स्यात् । अलाबूकटम् । उमाकटम् । मङ्गाकटम् । तिलकटम् ॥ ८४ ॥
अह्वागम्येऽश्वादीन ।७।१।८५। षष्ठ्यन्तादवादकेनाहागम्येऽर्थे ईनञ् स्यात् । आश्वीनोऽध्या॥८५॥
कुलाज्जल्पे ।७।१।८६। षष्ठ्यन्तात्कुलाजल्पऽर्थे ईना स्यात् । कौलीनः ॥ ८६॥ पील्वादेः कुणः पाके । ७।१। ८७। एभ्यस्तस्य पाके कुणः स्यात् । पीलुकुणः । शमीकुणः ॥ ८७ ॥ कर्णादेर्मूले जाहः । ७।१।८८ ।