SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य । चोरादेः । ७।१।७३। एम्यस्तस्य मावे कर्मणि चाकञ् स्यात् । चौरिका । चोरत्वम् । चोरता । एवं धौतिका ॥ ७३ ॥ द्वन्द्वाल्लित् । ७।१।७४। द्वन्दात्तस्य भावे कर्मणि च लिदा स्यात् । वैत्रिका । विनृत्वम् । विनृता ॥७४॥ गोत्रचरणात श्लाघात्याकारप्राप्त्यव गमे । ७।१। ७५ । गोत्रार्थचरणाम्यां तस्य भावे कर्माणि च लिदकञ् स्यात् । श्लाघादिविषये । गार्गिकया श्लाघते अत्याकुरुते वा गार्गिकं प्राप्तोऽवगतो वा। एवं काठिकयेत्यादि । श्लाघादिष्विति किम् । गार्गम् । काठम् ॥ ७५॥ होत्राभ्य ईयः । ७।१।७६। होत्रा ऋत्विग्विशेषः । तदर्थात्तस्य भावे कर्मणि चयः स्यात् । मैत्रावरुर्णायम् । त्वतलावपि ॥ ७६ ॥ ब्रह्मणस्त्वः ।।७।१।७७। अस्मादृस्विगात्तस्य भावे कर्मणि त्वः स्यात् । ब्रह्मत्वम् ॥७७ ।। शाकटशाकिनौ क्षेत्रे।७।१।७८। षष्ठयन्तात्क्षेत्रेऽर्थे एतौ स्याताम् । इक्षुशाकटम् । शाकशाकिनम् ॥ धान्येभ्य ईन । ७।१। ७९। धान्यार्थेभ्यः षष्ठ्यन्तेभ्यः क्षेत्रेऽर्थे इनञ् स्यात् । मौद्गीनम् । कौद्रवीणम् ।। ७९॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy