SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ स्थोपज्ञलघुवृत्तिः। एभ्यस्तस्य भावे कर्मणि चाण स्यात् । यौवनम् । युवत्वम् । युवता। स्थाविरम् । स्थविरत्वम् । स्थविरता ॥ ६७ ॥ हायनान्तात् ।७।१।६८। अस्मातस्य मावे कर्मणि चाण स्यात् । छैहायनम् । बिहायनत्वम् । द्विहायनता ॥ ६८॥ वृवर्णाल्लवादेः । ७।१।६९। लघुरादिः समीपो येषां इउऋवर्णानां तदन्तेभ्यस्तस्य भावे कर्मणि चाण स्यात् । शौचम् । शुचित्वम् । शुचिता । एवं हारीतकम् । पाटवम् । वाधवम् । पैत्रम् । लबादेरिति किम् । पाण्डुत्वम् ॥ ६९ ॥ पुरुषहृदयादसमासे । ७।१। ७०। आभ्यामसमासविषयाभ्यां तस्य भावे कर्मणि चाण स्यात् । पौरुषम् । पुरुषत्वम् । पुरुषता । एवं हाईम् । असमासइति किम् । परमपुरुषत्वम् । परमपौरुषमिति माभूत् ॥ ७० ॥ श्रोत्रियाद्यलुकच । ७।१।७१। अस्मात्तस्य भावे कर्मणि चाण स्यात् । तद्योगे च यस्य लुक्च श्रोत्रम् । श्रोत्रियत्वम् । श्रोत्रियता । श्रोत्रियकम् ॥ ७१ ॥ योपान्त्याद्गुरूपोत्तमादसुप्रख्याद कन् । ७।१ । ७२। त्र्यादीनामन्त्यमुत्तमम् । तत्समीपमुपोत्तमम् । तद्गुरुय॑स्य तस्माद्युपान्त्यात्सुप्रख्यवर्जात्तस्य भावे कर्मणि चाऽकञ् स्यात् । रामणीयकम् । रमणीयत्वम् । रमणीयता । एवमाचार्यकम् । गुरूपोत्तमादिति किम् । क्षत्रियत्वम् । कायत्वम् । असुप्रख्यादिति किम् । सुप्रख्यत्वम् । सौप्रख्यम् ॥ ७२॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy