SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४५८ . . हैमशब्दानुशासनस्य आधिराज्यम् । अधिराजत्वम् । अधिराजता। मौव्यम् । मूढत्वम् । मूढता । राज्यम् । राजत्वम् । राजता । काव्यम् । कवित्वम् । कविता ॥ अर्हतस्तोन्त च । ७।१।६१। अस्मात्तस्य भावे कर्माणि च ट्यण् स्यात् । तद्योगे च तस्य न्तादेशः। आर्हन्त्यम् । अर्हत्त्वम् । अर्हता ॥ ६१ ॥ सहायाहा । ७।१।६२। अस्मात्तस्य भावे कर्मणि च ट्यण स्यात् वा। साहाय्यम् । साहायकम् । सहायत्वम् । सहायता ॥ ६२ ॥ सखिवणिगदूताद्यः ।७।१।६३। एभ्यस्तस्य भावे कर्मणि च यः स्यात् । सख्यम् । सखित्वम् । सखिता । वणिज्या । वणित्त्वम् । वणिक्ता । वाणिज्यम् । दूत्यम् । दूतत्वम् । दूतता । दौत्यम् ॥ ६३ ॥ __ स्तेनान्नलक्च । ७।१।६४। स्तेनात्तस्य भावे कम्मणि च यः स्यात् । तद्योगे च नस्य लुक् । स्तेयम् । स्तेनत्वम् । स्तेनता । स्तैन्यम् ॥ ६४ ॥ कपिज्ञातेरेयण । ७।१।६५। आभ्यां तस्य भावे कर्मणि चैयण स्यात् । कापेयम् । कपित्वम् । कपिता । ज्ञातेयम् । ज्ञातित्वम् । ज्ञातिता ॥ ६५ ॥ प्राणिजातिवयोऽर्थादञ् ।७।१।६६। प्राणिजात्यर्थात् वयोऽर्थाच्च तस्य भावे कर्मणि चाज्ञ स्यात् । आश्वम् । अश्वत्वम् । अश्वता । कौमारम् । कुमारत्वम् । कुमारता ॥ ६६ ॥ युवादेरण् । ७।१।६७।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy