________________
स्वोपज्ञलघुवृत्तिः। षष्ठ्यान्ताद्भावे एतौ स्याताम् । शब्दस्य प्रवृत्तिहेतुर्गुणो भावः । गोत्वम् । गोता । शुक्लत्वम् । शुक्लता ॥ ५५ ॥ प्राक्त्वादगडुलादेः । ७।१ । ५६ ।
ब्रह्मणस्त्व इत्यतोऽस्त्वितलावधिकृतौ ज्ञयो नतु गडुलादेः। तत्रैवोदाहरिष्यत । गडुलादिवर्जनं किम् । गाडुल्यम् । कामण्डलवम् ॥५६॥ नतत्पुरुषादबुधादेः। ७।१।५७।
प्राक्त्वान्नपूर्वोत्तत्पुरुषाढुवाद्यन्तवर्जावतलावेव स्याताम् । इत्य. धिकृतं ज्ञेयम् । अशुक्लत्वम् । अशुक्लता । अपतित्वम् । अपतिता। अबुधादेरिति किम् । आबुध्यम् । आचतुर्यम् ॥ ५७ ॥
पृख्यादेरिमन्वा । ७।१।५८। एभ्यो भावेवेमन् स्यात् । प्रथिमा । पृथुत्वम् । पृथुता । पार्थवम् । प्रदिमा । मृदुत्वम् । मृदुता । मार्दवम् ॥ ५८ ॥ वर्णदृढादिभ्यष्ट्यण् च वा।७।११५९।
वर्णविशेषार्थेभ्यो दृढादेश्च तस्य भावे ट्याइमन्च स्यादा।शौक्ल्यम्। शुक्लिमा । शुक्लत्वम् । शुक्लता । शैत्यम् । शितिमा। शितित्वम् । शितिता । शैतम् । दाढयम् । दृढिमा । दृढत्वम् । दृढता । वैमत्यम् । विमतिमा । विमतित्वम् । विमतिता । वैमतम् ॥ ५९॥ पतिराजान्तगुणाङ्गराजादिभ्यः कर्म
णि च । ७।१।६०।। पत्यन्तराजान्तेभ्यो गुणोऽङ्ग प्रवृत्तौ हेतुर्येषान्तेभ्यो राजादेश्च तस्य भावे क्रियायां च ट्यण् स्यात् । आधिपत्यम्।अधिपतित्वम् । अधिपतिता।
P