________________
हैमशब्दानुशासनस्य । - परिखाऽस्य स्यात् ।७।१।४८ ।
अस्मात्स्यन्तादस्येति षष्ठयर्थे परिणामिन्येयण स्यात् । साचेत्स्या. दिति सम्भाव्या । पारिखेय्य इष्टकाः ॥ ४८ ॥ ____अत्र च । ७।१।४९। ।
परिखायाः स्यादिति सम्भाव्यायाः स्यन्तायाः अत्रेति सप्तम्यर्थे एयण स्यात् । पारिखेयी भूमीः ॥ ४९॥
तद् । ७।१।५० । तदिति स्यन्तात्स्यादिति सम्भाव्यात्षष्ठ्यर्थे परिणामिनि सप्तम्यर्थे च यथाऽधिकृतं प्रत्ययः स्यात् । प्राकारीया इष्टकाः। परशव्यमयः। प्रासादीयो देशः ॥ ५० ॥ तस्याहे क्रियायांवत् । ७।१।५१।
तस्येति षष्ठयन्ताक्रियारूपे ऽहेऽर्थे वत् स्यात् । राजवद्वृत्तं राज्ञः । क्रियायामिति किम् । राज्ञो? मणिः ॥ ५१ ॥
स्यादेरिवे । ७।१।५२। स्याद्यन्तादिवार्थे सादृश्ये क्रियार्थे वत् स्यात् । अश्ववद्याति. चैत्रः। देववत्पश्यन्ति मुनिम् ॥ ५२ ॥ ..
तत्र। ७।१।५३। -तत्रति सप्तम्यन्तादिवार्थे वस्यात् । स्रुघ्नवत् साकेते परिखा ।
तस्य । ७।१। ५४। तस्येति षष्ठयन्तादिवार्थे वत् स्यात् । चैत्रवन्मैत्रस्य भूः॥ ५४ ॥ - भावे त्वतल । ७।१ । ५५। ।