SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। . त्यदादेरिदमो द्वितीयाटौसि परेऽन्वादेशे एनद् स्यात् । अवृत्यन्ते । उदिष्टमिदमध्ययनमथो एनदनुजानीत । अनेनरात्रि रधीता अथो एनेनाहरण्यधीतम् । अनयोः शोभनं शीलं अथो एनयोर्महती कीर्तिः ।। ३४ ॥ अद्वयञ्जने । २।१। ३५। त्यदादेरिदमो व्यञ्जनादौ स्यादौ परेऽन्वादेशे अः स्यात् । अवृत्त्यन्ते । इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता । अथो आभ्याम हरप्यधीतम् । इमकेषु अथो एषु । अनगिति वक्ष्यमाणादिह साको पि विधिः ॥ ३५॥ अना।२।१। ३६ । त्यदादेर्व्यञ्जनादौ स्यादौ परेऽग्वर्ज इदम् अः स्यात्। आभ्याम् । आभिः। एषु। आसु । अनगिति किम् । इमकाभ्याम् । त्यदामित्येव । अतीदंभ्याम् ॥ ३६॥ टौस्यनः ।२।१।३७। त्यदां टायामोसि च परे नक इदमोऽनः स्यात् । अनेन । अनया । अनयोः २ । त्यदामित्येव । प्रियेदमा। अनक इत्येव । इमकेन ॥ ३७॥ अयमियम पुस्त्रियोः सौ।२।१।३८॥ त्यदां सौ परे इदमः पुंस्त्रियोर्यथासंख्यमयमियमौ स्याताम् । अयं ना । इयं स्त्री । त्यदामित्येव । अतीदं ना स्त्री वा ॥ ३८॥ दोमः स्यादौ ।२।१।३९ । त्यदां स्यादौ परे इदमो दो मः स्यात् । इमौ । परमेमौ । इमकाभ्याम् । त्यदामित्येव । प्रियेदमौ ॥ ३९ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy