________________
हैमशन्दानुशासनस्य नित्यमन्वादेशे ।२।१।३१। किञ्चिद्विधातुं कथितस्य पुनरन्यदिधातुं कथनमन्वादेशः । तस्मिन् विषये पदात् परयोर्युष्मदस्मदोवस्नसादिनित्यं स्यात् । यूयं विनीतास्तद्वो गुरवो मानयन्ति । वयं विनीतास्तन्नो गुरखो मानयन्ति । धनवांस्त्वमथो वा लोको मानयति । धनवानहमथोमा लोको मानयति ॥ ३१॥
सपवात् प्रथमान्ताद्वा।२।१।३२ ।
विद्यमानपूर्वपदात् प्रथमान्तात् पदात् परयायुष्मदस्मदोरन्वादेशे वस्नसादिस्यिात् । यूयं विनीतास्तद्गुरखो वो मानयंति । तद्गुरखो युष्मान् मानयन्ति । वयं विनीतास्तद्गुरखो नोमानयन्ति। तद्गुरवो ऽस्मान मानयन्ति । युवां सुशीलौ तज्ज्ञानं वां दीयते तज्ज्ञानं युवाभ्यां दीयते । आवां सुशीलौ तज्ज्ञानं नौ दीयते तज्ज्ञान मावाभ्यां दीयते ॥ ३२॥
त्यदामेनदेतदो द्वितीयाटौ
स्यवृत्त्यन्ते ।२।१॥३३॥ त्यदादीनामेतदो द्वितीयायां टायामोसि च परेऽन्वादेशे एनद् स्यात् । नतु वृत्त्यन्ते । उद्दिष्टमेतदध्ययनमथोएनदनुजानीत । एतकं साधुमावश्यकमध्यापय अथोएनमेवसूत्राणि । अत्र साकः । एतेन रात्रिरधीता अथो एनेनाहरण्यधीतम् । एतयोः शोभनं शीलमथो एनयोर्महती कीर्तिः । त्यदामिीत किम् । संज्ञायामेतदं संगृहाण अथो एतदमध्यापय । अवृत्त्यन्त इति किम् । अथो परमैतम् पश्य ॥ ३३ ॥
इदमः।२।१।३४।