________________
स्वोपज्ञलघुवृत्तिः। वोथो शरणं प्रपद्ये। साधो मुविहित नोथोरक्ष। विशेष्यमिति किम् । शरण्याः साधवा युष्मान् शरणम् प्रपद्य । आमन्त्र्य इति किम् । आचार्या युष्मान शरण्याः शरणं प्रपद्ये । अर्थात्तद्विशेषणभूत इति किम् । आचार्या उपाध्याया युष्मान् शरणं प्रपद्ये ॥ २६ ॥
नान्यत् । २।१।२७। युष्मदस्मद्भयाम् पूर्व जसन्तादन्यदामन्त्र्यं विशेष्यमामन्त्र्ये तद्धि शेषणे परेऽसदिव न स्यात् । साधो सुविहित वा शरणम् प्रपद्ये । साधो सुविहित मा रक्ष ॥ २७॥
पादाद्योः ।२।१। २८ । नियतपरिमाणमात्राक्षरपिण्डः पादः । पदात् परयोः पादस्यादिस्थयो युष्मदस्मदोवस्नसादिर्न स्यात् । वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता ॥ सएवनाथोभगवानस्माकम्पापनाशनः ॥ १॥ पादाद्योरिति किम् । पान्तु वो देशनाकाल जैनेन्द्रा दशनांशवः । भवकूपपतजन्तु जातोद्धरणरज्जवः ॥२॥२८॥ - . चाहहवैवयोगे।२।१।२९।
एभियोगे पदात् परयोर्युष्मदस्मदोर्वस्त्रसादिनस्यात् । ज्ञानं युष्मांश्च रक्षतु । एवं अहहवाएंवरप्युदाहार्यम् | योग इति किम् । ज्ञानञ्च शीलञ्च ते स्वम् ॥ २९॥
दृश्यर्थंश्चिन्तायाम।२।१॥३०॥ हशिना समानार्थश्चिन्तार्थैर्धातुभियोगे युष्मदस्मदोर्वस्नसादिर्नस्यात् । जनो युष्मान सन्दृश्यागतः। जनोऽस्मान् सन्दृश्यागतः। जनो युवां समीक्ष्यागतः। जन आवां समीक्ष्यागतः। जनस्त्वामपेक्षते । जनो मामपेक्षते । सर्वत्र मनसा चिन्तनं दृश्यर्थानामर्थः । दृश्यर्थैरिति किम् । जनो वो मन्यते । चिन्तायामिति किम् । जनोवः पश्यति॥३०॥