SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ हैमशन्दानुशासनस्य द्वित्वे वाम्नौ ।२।१।२२। पदात् परयोर्युष्मदस्मदार्दित्वविषयया युग्विभक्त्या सह यथासंख्यं वामनौ इत्येतौ वा स्याताम् । एकवाक्ये । धर्मों वां पातु । धर्मो युवां पातु । धर्मो नौ पातु । धर्म आवां पातु । एवं । चतुर्थीषष्ठीभ्यामपि ॥ २२ ॥ डेडसा ते मे ।२।१।२३। डेडस्म्यां सह पदात् परयोयुष्मदस्मदोर्यथासंख्यं ते मे इत्येतो वा स्याताम् । एकवाक्ये । धर्मस्तेदीयते । धर्मस्तुभ्यं दीयते । धर्मो मे दीयते । धर्मो मह्यं दीयते । धर्मस्ते स्वम् । धर्मस्तव स्वम् । धर्मों मे स्वम् । धर्मो मम स्वम् ॥ २३ ॥ अमात्वामा। २।१।२४। अमा सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यं त्वामा इत्येतौ वा स्याताम् । एकवाक्ये । धर्मस्त्वा पातु । धर्मस्त्वां पातु । धर्मों मा पातु । धर्मो मां पातु ॥ २४॥ असदिवामन्त्र्यं पूर्वम्। २।१।२५। आमन्त्र्यार्थ पदं युष्मदस्मद्भ्यां पूर्वमसदिव स्यात् । जना युष्मान पातु धर्मः । साधू युवां पातु धर्मः । साधो त्वां पातु तपः । पूर्वमिति किम् । मयैतत्सर्वमाख्यातं युष्माकं मुनिपुङ्गवाः ॥ २५ ॥ जस्विशेष्यं वामन्त्र्ये ।२।१।२६ । युष्मदस्मद्भयां पूर्व जसन्तमामन्त्र्यार्थ विशेष्यवाच्यामन्त्र्ये पदे अर्थात् तद्विशेषणे परेऽसदिव वा स्यात् । जिनाः शरण्या युष्मान शरणं प्रपद्ये । जिनाः शरण्या कः शरणं प्रपद्ये। जिनाः शरण्याअस्मान् रक्षत । जिनाः शरण्या नो रक्षत। जसिति किम्। साधो सुविहित
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy