________________
स्वोपज्ञलघुवृत्तिः। शसो नः ।२।१।१७। - युष्मदस्मद्भ्यां परस्य शसो न इति स्यात् । युष्मान् । अस्मान् । प्रियवान् । प्रियमान् ॥ १७ ॥
अभ्यम् भ्यसः ।२।१।१८। युष्मदस्मद्भ्यां परस्य चतुर्थीभ्यसोऽभ्यं स्यात् । युष्मभ्यम् । अस्मभ्यम् । अतियुवभ्यम् । अत्यावभ्यम् ॥ १८॥
डसेश्चाद् ।२।१।१९। युष्मदस्मयां परस्य उसेः पञ्चमीभ्यसश्च अद् इति स्यात् । त्वद् । मद् । अतियुवद् । अत्यावद् । युष्मद् । अस्मद् । अतित्वद् । अतिमद् ।। १९ ॥
आम आकम् ।२।१।२०॥ युष्मदस्मद्भ्यां परस्य आम आकं स्यात् । युष्माकम् । अस्माकम् । अतियुवाकम् । अत्यावाकम् । युष्मानस्मान् वाऽऽपक्षाणानां युष्माकम् । अस्माकम् ॥ २० ॥ पदायुगविभक्त्यैकवाक्ये वस्नसौ
बहुत्वे ।२।१।२१। बहुत्वविषयया समविभक्त्या सह पक्षात् परयोर्युष्मदस्मदोर्यथासंख्यं वस्नसौ वा स्याताम् । तच्चत्पदं युष्मदस्मदीचैकस्मिन् वाक्ये स्तः । अन्वादेशे नित्यंविधानादिह विकल्पः । एवमुत्तरसूत्रत्रयेपि । धर्मों वो रक्षतु । धर्मो नो रक्षतु । धर्मो युष्मान् रक्षतु । धर्मोऽस्मान् रक्षतु । एवं चतुर्थीषष्ठीभ्यामपि । पदादिति किम् । युष्मान् पातु । युग्विभक्त्येतिकिम् । तीर्थे यूयं यात । एकवाक्य इति किम् । अतियुष्मान् पश्य ओदनं पचत युष्माकं भविष्यति ॥ २१ ॥