________________
४०
हैमशब्दानुशासनस्य
त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् |२| १|११|
स्यादौ प्रत्ययोत्तरपदयोश्च परयोरेकार्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य यथासंख्यं त्वम इत्येतौ स्याताम् । त्वाम् । माम् । अतित्वाम् अतिमाम् । अतित्वासु । अतिमासु । त्वदीयः। मदीयः । त्वत्पुत्रः। मत्पुत्रः । प्रत्ययोत्तरपदेचेति किम् । अधियुष्मद् । अध्यस्मद् । एकस्मिन्निति किम् । युष्माकम् । अस्माकम् ॥ ११ ॥
त्वमहंसिना प्राक्चाकः । २।१।१२ ।
सिना सह युष्मदस्मदोर्यथासंख्यं त्वमहमौ स्याताम् । तौ चाक्प्रसङ्गेऽकः प्रागेव । त्वम् । अहम् | अतित्वम् । अत्यहम् । प्राक्चाक इति किम् | त्वकम् । अहकम् ॥ १२ ॥
यूयं वयं जसा । २ । १ । १३ ।
जसा सह युष्मदस्मदोर्यथासंख्यं यूयम्वयमौ स्याताम् । यूयम् । वयम् । प्रिययूयम् । प्रियवयम् । प्राक्चाक इत्येव । यूयकम् । वयकम् ॥ १३ ॥
तुभ्यं मह्यं ङया । २ । १।१४।
ङया सह युष्मदस्मदोर्यथासंख्यं तुभ्यम्मामौ स्याताम् । तुभ्यम् । मह्यम् । प्रियतुभ्यम् । प्रियमह्यम् । प्राक्चाक इत्येव । तुभ्यकम् | मह्यकम् ॥ १४ ॥
तव मम ङसा | २। १ । १५।
ङसा सह युष्मदस्मदोर्यथासंख्यं तवममौ स्याताम् । तव । मम । प्रियतव । प्रियमम । प्राक्चाक इत्येव । तवक । ममक ॥ १५ ॥ अमौ मः । २ । १ । १६ ।
युष्मदस्मद्भयम् परयोरम् औ इत्येतयोर्म इति स्यात् । त्वाम् । माम् । अतित्वाम् । अतिमाम् । युवाम् । आवाम् । अतियुवाम् । अत्यावाम् ||१६||