________________
स्वोपज्ञलावृत्तिः आ रायो व्य ञ्जने ।२।१।५ व्यञ्जनादौ स्यादौ परे रेशब्दस्य आः स्यात् । राः। रासु । अतिराभ्याम् कुलाभ्याम् । व्यञ्जनइति किम् । रायः ॥ ५ ॥
युष्मदस्मदोः।२।१।६। व्यञ्जनादौ स्यादौ परे युष्मदस्मदोराः स्यात् । त्वाम् । माम् । अतित्वाम् । अतिमाम । युष्मासु । अस्मासु ।। ६ ।।
. टाड्योसि यः।२।१।७। . टाङ्योस्सु परेषु युष्मदस्मदोर्यः स्यात् । त्वया । मया। अतियुवया । अत्यावया। त्वयि । मयि । युवयोः। आवयोः। टाङ्योसीति किम् । स्वत् । मत् ॥ ७॥
शेषे लुक् ।२।१।। ___ यस्मिन्नायौ कृतौ ततोऽन्यः शेषः । तस्मिन् स्यादौ परे युष्मदस्मदोलक स्यात् । युष्मभ्यम् । अस्मभ्यम् । अतित्वत् । अतिमत् । शेष इति किम् । त्वयि । मयि ॥ ८॥
मोर्वा ।२।१।९। शेषे स्यादौ परे युष्मदस्मदोर्मो ग् वा स्यात् । युवाम् युष्मान्वा आवाम् अस्मान्वा आचक्षाणेभ्यो णिचिकिपि च लुकि च। युष्मभ्यम् युषभ्यम् । अस्मभ्यम् असभ्यम् ॥ ९॥ । मन्तस्य युवावौ द्वयोः।२।१।१०।
द्वयर्थवृत्त्योयुष्मदस्मदोर्मान्तावयवस्य स्यादौ परे यथासंख्यं युव आव इत्येतो स्याताम् । युवाम् । आवाम् । अतियुवाम् । अत्यावाम् । अतियुवासु । अत्यावासु । मन्तस्योतिकिम् । युवयोः। आवयो रित्यत्र दस्य यत्वम् यथा स्यात् ।स्यादावित्येव । युवयोःपुत्रो युष्मत्पुत्रः।।