________________
हैमशब्दानुशासनस्य आतदोऽर्थेषु शुनो यः स्यात् । वश्वोद्रूपः । शुन्यम् । शून्यम् ॥ कम्बलान्नाम्नि । ७।१।३४।
अस्मादातदोऽर्थेषु नाम्नि यः स्यात् । कम्बल्यम् ऊर्णापलशतम् । नाम्नीति किम्। कम्बलीयोर्णा ॥ ३४॥
तस्मै हिते । ७।१।३५ । तस्मैइति चतुर्थ्यन्ताद्धितेर्थे यथा ऽधिकृतं प्रत्ययः स्यात् । वत्सीयः। आमिक्ष्यः । आमिक्षीयः । युग्यः ॥ ३५ ॥ न राजाचार्यबाह्मणवृष्णः।७।१।३६।
एभ्यश्चतुर्थ्यन्तेभ्यो हितेऽधिकृतः प्रत्ययो न स्यात् । राजे आचार्याय ब्राह्मणाय वृष्णे वा हित इति वाक्यमेव ।। ३६ ॥ प्राण्यङ्गरथखलतिलयववृषबह्ममा
षाद्यः ।७।१।३७। प्राण्यङ्गार्थेभ्यो रथादिभ्यश्चतुर्थ्यन्तेभ्यो हिते यः । स्यात् । दन्त्यम्। रथ्या भूमिः । खल्यम् । तिल्यम् । यव्यम्। वृष्यम् । क्षीरम् । ब्रह्मण्यो देशः। माष्यः। राजमाष्यः ॥ ३७॥
अव्यजातथ्यप् । ७।१।३८ । आभ्यां तस्मै हिते थ्यप् स्यात् । अविथ्यम् । अजथ्या यूतिः ॥ ३८॥ चरकमाणवादीन । ७।१।३९।
आभ्यां तस्मै हिते ईनञ् स्यात् । चारकीणः । माणवीनः॥ ३९॥ भोगोत्तरपदात्मभ्यामीनः ।७।१।४०।