SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ४४८ हैमशब्दानुशासनस्य विंशत्यादयः। ६।४।१७३। एते तदस्य मानमित्यर्थे साधवः स्युः नाम्नि । द्वौदशतौ मानमेषां विंशतिः । त्रिंशत् ॥ १७३ ॥ चॅशचात्वारिंशम् । ६।४।१७४। त्रिंशचात्वारिंशद्भगन्तदस्य मानमित्यर्थे डण स्यात् । नाम्नि । शानि। चात्वारिंशानि ब्राह्मणानि ॥ १७४ ॥ पञ्चदशद्वर्गेऽवा।६।४।१७५। एतौ तदस्य मानमिति विषये वर्गेऽर्थेऽदन्तौ वा निपात्यो । पञ्चत्। दशत् । पञ्चकः । दशकः वर्गः ॥ १७५ ॥ स्तोमे डट।६।४।१७६। __ सङ्ख्यार्थात्तदस्य मानमिति विषये स्तोमेर्थे डट् स्यात् । विंशः । स्तोमः ॥ १७६ ॥ तमहति । ६।४।१७७। तमिति द्वितीयान्तादर्हदर्थे यथोक्तं प्रत्ययः स्यात् । वैषिकः । साहस्रः ॥ १७७॥ दण्डादेर्यः । ६।४।१७८। एभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे यः स्यात् । दण्ड्यः। अर्थ्य॥१७८॥ यज्ञादियः । ६।४।१७९। द्वितीयान्ताद्यज्ञादहतीयः स्यात् । यज्ञियो देशः ॥ १७९ ॥ पात्रात्तौ। ६।४।१८०। द्वितीयान्तात् पात्रादर्हति ययौ स्याताम् । पाव्यः । पात्रियः॥१८॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy