SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृतिः । ३४५ वंशादेर्भाराद्वरद्वहदावहत्सु । ६ । ४ । १६६ । एभ्यः परो यो भारस्तदन्ताद्वितीयान्तात् एष्वर्थेषु यथोक्तं प्रत्ययः स्यात् । वांशभारिकः । कोटभारिकः ॥ १६६ ॥ द्रव्यवस्नात्कम् । ६ । ४ । १६७ । आभ्यां द्वितीयान्ताभ्यां हरदाद्यर्थे यथासङ्ख्यं कइकश्च स्यात् । द्रव्यकः । वस्निकः ॥ १६७ ॥ सोऽस्य भृतिवस्नांशम् । ६ । ४ । १६८ । स इति प्रथमान्तात्याद्यर्थादस्येति षष्ठ्यर्थे यथोक्तं प्रत्ययः स्यात् । पञ्चकः कर्मकृत् पटो ग्रामो वा । साहस्रः ॥ १६८ ॥ मानम् । ६ । ४ । १६९। प्रथमान्तात्षष्ठ्यर्थे यथोक्तं प्रत्ययः स्यात् । स्यन्तं चेन्मानम् | द्रौणिकः । खारीको राशिः ॥ १६९ ॥ जीवितस्य सन् । ६ । ४ । १७० । जीवित मानार्थात्स्यन्तात् षष्ठ्यर्थे यथोक्तं प्रत्ययः स्यात् । तस्य च न लुप् । द्विषाष्टिको ना ॥ १७० ॥ सङ्ख्ययाः संघसूत्रपाठे । ६ । ४ । १७१ । । अस्मात्स्यन्तादस्य मानमित्यर्थे यथोक्तं प्रत्ययः स्यात् । षष्ठयर्थचेत्सङ्घः सूत्रं पाठो वा ! पञ्चकः सङ्घः । अष्टकं पाणिनीयं सूत्रम् । अष्टकः पाठः ॥ १७१ ॥ नाम्नि । ६ । ४ । १७२ । सङ्ख्यार्थात्तदस्य मानमित्यर्थे यथोक्तं प्रत्ययः स्यात् । नाम्नि । पञ्चकाः शकुनयः ॥ १७२ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy