SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४४३ हैमशब्दानुशासनस्य भागाधेको । ६।४।१६०। भागात्तदस्मिन्नस्मै वा वृद्धयाद्यन्यतमन्देयमिति विषये येको स्याताम् । भाग्यः । मागिकः ॥ १६० ॥ तं पचतिद्रोणाहाऽञ् ।६।४।१६१। तमिति द्वितीयान्ताहोणात्पचत्यर्थे वा ऽज्ञ स्यात्। द्रौणी । द्रौणिकी स्थाली ॥ १६१॥ सम्भवदवहरतोश्च । ६।४।१६२। द्वितीयान्तात्पचत्सम्भवदवहरत्सु यथोक्तं प्रत्ययः स्यात् । आधेयस्थ प्रमाणानतिरेकेण धारणं सम्भवः । अतिरेकेणावहारः । प्रास्थिकी स्थाली ॥ १६२ ॥ पात्राचिताढकादीनो वा ।६।४।१६३। एभ्यो द्वितीयान्तेभ्यः पचदाद्यर्थे ईनो वा स्यात् । पात्रीणा । पात्रिकी । आचितीना । आत्रितिकी । आढकीना । आढकिकी ॥ द्विगोरीनेकटौ वा।६।४।१६४। पात्राचिताढकान्ताविगोदितीयान्तात्पचदाद्यर्थे ईनेकटौ वा स्याताम् । पक्ष इकण । तस्य चानाम्नीत्यादिनाप्लुप् । नानयोर्विधानबलात् । द्विपात्रीणा । द्विपात्रिकी । द्विपात्री। व्याचिंतीना । व्याचिंतिकी। याचिता । याढकीना । याढकिकी। द्वयाढकी ॥ १६४ ॥ कुलिजाद्वा लुपच । ६।४। १६५ । कुलिजान्ताद्विगोद्धितीयान्तात्पचदाद्यर्थे ईनेकटौ वा स्याताम् । पक्ष इकण तस्य च वा लुप् । द्विकुलिजीना । द्विकुलिजिकी । द्विलिजी। बैकुलिजिकी ॥ १६५ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy