SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञल वृत्तिः। द्विस्वरब्रह्मवर्चसाद्योऽसङ्ख्यापरिमाणा- . _ वादेः। ६।४।१५५। सङ्ख्यापरिमाणाऽश्वादिवर्जात् द्विस्वराद्ब्रह्मवर्चसाच षष्ठ्यन्ता. द्धतौ संयोगे उत्पाते वा यः स्यात्। धन्यः। ब्रह्मवर्चस्यः । सङ्ख्यादिवर्जनं किम् । पञ्चकः । प्रास्थिकः । आश्विकः ॥ १५५ ॥ पृथिवीसर्वभूमेरीशज्ञातयोश्चा३।६।४।१५६। . आभ्यां षष्ठ्यन्ताभ्यामीशज्ञातयोस्तस्य हेतुः संयोग उत्पात इति विषये चा ऽञ् स्यात् । पार्थिवः । सार्वभौमः ईशो ज्ञातः संयोगोत्पातरूपो हेतुर्वा ॥ १५६ ॥ लोकसर्वलोकात् ज्ञाते।६।४।१५७। आभ्यां षष्ठयन्ताभ्यां ज्ञाते ऽर्थे यथोक्तं प्रत्ययः स्यात् । लौकिकः। सार्वलौकिकः ॥ १५७ ॥ तदत्रास्मै वा वृद्धयायलाभोपदाशुक्लं देयम् । ६।४।१५८ । तदिति प्रथमान्तादत्रेति सप्तम्यर्थेऽस्मै इति चतुर्थ्यर्थे वा यथोक्तं प्रत्ययः स्यात् । तच्चेत्प्रथमान्तं वृद्धगदिदेयं च स्यात् । वृद्धिः पञ्चक शतम् । आयः पञ्चको ग्रामः । लाभः पञ्चकः पटः। उपदा लंचा। पञ्चको व्यवहारः । शुक्लं पञ्चकं शतम् । एवं शत्यं शतिकम् ॥ १५८ ॥ पूरणा दिकः । ६।४।१५९। पूरणप्रत्ययान्तादर्भाच्च प्रथमान्तादस्मिन्नस्मै वा दीयते इत्यर्थयोरिकः स्यात् । प्रथमान्तं चेद्वृद्धृवादि । द्वितीयिकः । अर्दिकः॥१५९॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy