SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ हैम शब्दानुशासनस्य पणान्ताद् द्विगोरार्हदर्थे यः स्यात् । द्विपण्यम् । द्विपाद्यम् । अध्यर्द्धमाष्यम् || १४८ ॥ खारीकाकणीभ्यः कच् । ६ । ४ । १४९। एतदन्ताद्विगोराभ्यां चार्हदर्थे कच् स्यात् । द्विखारीकम् । द्विकाकणीकम् । खारीकम् । काकणीकम् ॥ १४९ ॥ ४४४ मूल्यैः क्रीते । ६ । ४ । १५० । मूल्य थट्टान्तात् क्रीतेऽर्थे यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम् । त्रिंशकम् ॥ १५० ॥ तस्य वापे । ६ । ४ । १५१ । तस्येति षष्ठयन्ताद्वापेऽर्थे यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम् । खारीकम् ॥ १५१ ॥ वातपित्तश्लेष्मसन्निपाताच्छमनको पने । ६ । ४ । १५२ । एभ्यः षष्ठ्यन्तेभ्यः शमने कोपने चार्थे यथोक्तमिक‍ स्यात् । वातिकम् । पत्तिकम् । श्लैष्मिकम् । सान्निपातिकम् ॥ १५२ ॥ eat संयोगोत्पाते । ६ । ४ । १५३ । षष्ठयन्ताद्धेतावर्थे यथोक्तं प्रत्ययः स्यात् । चेद्धेतुः संयोग उत्पातो वा । शत्यः । शतिकः दातृसंयोगः । सौमग्राहणिको भूमिकम्पः ॥ १५३॥ पुत्राद्येयौ । ६ । ४ । १५४ । पुत्रात्षष्ठ्यन्ताद्धेतावर्थे येयौ स्याताम् । चेद्धेतुः संयोगोत्पातो वा । पुत्र्यः । पुत्रीयः ॥ १५४ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy