SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४४२ हैमशब्दानुशासनस्य ___ आस्मादार्हदर्थे इकट् स्यात् । अस्य च प्रतिर्वा । कार्षापणिकी । प्रतिकी ॥ १३३ ॥ अर्द्धात्पलकं सकर्षात् ।६।४।१३४। अर्द्धपूर्वात्पलाद्यन्तादार्हदर्थे इकट् स्यात् । अर्द्धपलिकम् । अर्द्धकसिकम् । अर्द्धकर्षिकी ॥ १३४॥ कंसार्द्धात् । ६।४।१३५ । आभ्यामार्हदर्थे इकट् स्यात् । कंसिकी । अद्धिकी ॥ १३५॥ सहस्रशतमानादण ।६।४।१३६ । आभ्यामार्हदर्थे ऽण् स्यात् । साहस्रः । शातमानः ॥ १३६ ।। सप्पीद्वाऽ । ६।४।१३७। आहेदर्थे वा ऽञ् स्यात् । सौर्पम् । सौर्पिकम् ॥ १३७ ॥ वसनात् । ६।४। १३८ । । आहेदर्थेऽज्ञ स्यात् । वासनम् ॥ १३८॥ विंशतिकात् । ६।४।१३९ । आहेदर्थे ऽज्ञ स्यात् । वैंशतिकम् ॥ १३९ ॥ द्विगोरीनः।६।४।१४० । विंशतिकान्ताद् द्विगोराहदर्थे ईनः स्यात् । द्विविंशतिकीनम् ॥ अनाम्न्याद्विः प्लुप् ।६।४।१४१ । दिगोराईदर्थे जातस्य प्रत्ययस्य पित्लुप् स्यात् । नतु द्विः अनाम्नि । दिकंसम् । अनाम्नीति किम् । पाञ्चलोहितिकम् । अद्विरिति किम् । बिसूर्पण क्रीतं द्विसौर्पिकम् ॥ १४१ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy