________________
स्वोपज्ञलघुवृत्तिः। आकालिकमिकश्चाद्यन्ते।६।४।१२८। __आकालिकादिक इकण च भवत्यर्थे स्यात् आदिख यद्यन्तः।आकालिकोऽनध्यायः पूर्वेार्यस्मिन्काले प्रवृत्तो ऽपरेायरप्यातस्मात्कालाद्भवतीत्यर्थः। आकालिकी आकालिका वा विद्युत् आजन्मकालमेव स्याज. न्मानन्तरनाशिनीत्यर्थः ॥ १२८ ॥ त्रिंशद्विशतेर्डकोऽसंज्ञायामाई
दर्थे । ६।४।१२९ । आभ्यामार्हदर्थाघोर्थो वक्ष्यते तस्मिन् डकः स्यात् । असंज्ञाविषये । त्रिंशकम् । विशकम् । त्रिंशकः । विंशकः । असंज्ञायामिति किम् । त्रिंशत्कम् । विंशतिकम् ॥ १२९ ॥ सङ्ख्याडतेश्चाऽशत्तिष्टेः कः।६।४।१३०॥
शदन्तत्यन्तष्टयन्तवर्जसङ्ख्याया डत्यन्तात्रिंशदिशतिभ्यां चाहदर्थेकः स्यात् । दिकम् । कतिकम् । त्रिंशत्कम् । विंशतिकम् । अशत्तिष्टेरिति किम् । चात्वारिंशत्कम् । साप्ततिकम् । षाष्टिकम् ॥१३०॥ शतात्केवलादतस्मिन्येकौ ।६।४।१३१॥
शतात्केवलादार्हदर्थे येकौ स्याताम् । सचेदर्थः प्रकृत्यर्थान्नाभिन्नः । शत्यम् । शतिकम् । केवलादिति किम् । द्विशतकम् । अतस्मिन्निति किम् । शतकं स्तोत्रम् ॥ १३१॥
वातोरिकः । ६।४।१३२। अत्वन्तसङ्ख्याया आर्हदर्थे इको वा स्यात् । यावतिकम् । यावस्कम् ॥ १३२॥ कार्षापणादिकट् प्रतिश्चास्य वा।६।४।१३३॥