SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य एभ्यस्तदस्य प्रयोजनमिति विषये ईयः स्यात् । उत्थापनीयः । उपस्थापनीयः ॥ १२१ ॥ ४४० विशिरुहिपदिपरिसमापरनात्सपूर्व पदात् । ६ । ४ । १२२ । एभ्यो ऽनान्तेभ्यः सपूर्वपदेभ्यस्तदस्य प्रयोजनमित्यर्थे ईयः स्यात् । गृहप्रवेशनीयम् । आरोहणीयम् । गोप्रपदनीयम् । प्रपापूरणीयम् । अङ्गसमापनीयम् ॥ १२२ ॥ स्वर्गस्वतिवाचनादिभ्यो यलुपौ । ६ । ४ । १२३ । स्वर्गादेः स्वस्तिवाचनादेश्व तदस्य प्रयोजनमित्यर्थे यथासंख्यं यो लुब् च स्यात् । स्वर्ग्यम् । आयुष्यम् । स्वस्तिवाचनम् । शान्तिवाचनम् ॥ १२३ ॥ 3 समयात्प्राप्तः । ६ । ४ । १२४ । समयात्प्रथमान्तात् षष्ठ्यर्थे इकण स्यात् । चेत्समयः प्राप्तः । सामयिकं कार्यम् ॥ १२४ ॥ ऋत्वादिभ्योऽण । ६ । ४ । १२५ । एभ्यः प्रथमान्तेभ्यः सोऽस्य प्राप्तइत्यर्थे ऽण स्यात् । आर्त्तवं फलम् । औपवस्त्रम् ॥ १२५ ॥ कालाद्यः । ६ । ४ । १२६ । कालात्सोऽस्य प्राप्तइत्यर्थे यः स्यात् । काल्या मेघाः ॥ १२६ ॥ दीर्घः । ६ । ४ । १२७। कालात्प्रथमान्तादस्येत्यर्थे इकण स्यात् । प्रथमान्तश्चेद्दीर्घः। कालिकमृणम् ॥ १२७ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy