SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृति । ईनञ्च । ६ । ४ । ११४ । मासाद्भूतेऽर्थे इनञ् यश्च स्यात् वयसिगम्ये । मासीनः । मास्यः । शिशुः ॥ ११४ ॥ ४३९ षण्मासाद्ययणिकण । ६ । ४ । ११५ । अस्मात्कालार्थाद्भूतेऽर्थे एते स्युः । वयसिगम्ये । षण्मास्यः। षाण्मास्यः । षाण्मासिकः शिशुः ॥ ११५॥ सोऽस्य ब्रह्मचर्यतद्वतो: । ६ । ४ । ११६ । स इति प्रथमान्तात्कालार्थादस्येति षष्ठयर्थे ब्रह्मचर्ये ब्रह्मचारिणि चेकण् स्यात् । मासिकं ब्रह्मचर्यम् । मासिकस्तद्वान् ॥ ११६ ॥ AV प्रयोजनम् । ६ । ४ । ११७ । प्रथमान्तात्षष्ठ्यर्थे इकण स्यात् प्रथमान्तं चेत्प्रयोजनम् | जैनमहिकं देवागमनम् ॥ ११७ ॥ एकागाराच्चौरे । ६ । ४ । ११८ । अस्मात्तदस्य प्रयोजनमिति विषये चौरेऽर्थे इकण् स्यात् । ऐकागारिकः ॥ ११८ ॥ चूडादिभ्योऽण । ६ । ४ । ११९ । एभ्यस्तदस्य प्रयोजनमिति विषये ऽण स्यात् । चौडं श्राद्धम् ॥ विशाखाषाढान्मन्थदण्डे । ६ । ४ । १२० । आभ्यां तदस्य प्रयोजनमिति विषये यथासङ्ख्यं मन्थे दण्डे चार्थेऽण् स्यात् । वैशाखो मन्थः । आषाढो दण्डः ॥ १२० ॥ उत्थापनादेरीयः । ६ । ४ । १२१ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy