SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ हेम शब्दानुशासनस्य तस्मै भृताऽधीष्टे च । ६ । ४ । १०७। तस्मैइति चतुर्थ्यन्तात्कालार्थात् भूतेऽधीष्टे चार्थे इकण स्यात् । मासिकः कर्मकरः उपाध्यायो वा ॥ १०७ ॥ ४३८ षण्मासादवयसि ण्येकौ । ६ । ४ । १०८ । अस्मात्कालार्थात्तेन निर्वृते तं भाविनि भूते तस्मै भृताऽधीष्टे चेति विषये ण्य इकश्च स्यात् अवयसि गम्यमाने । षाण्मास्यः । षण्मासिकः ॥ १०८ ॥ समाया ईनः । ६ । ४ । १०९ । अस्मात्तेन निर्वृत्ते इत्यादि पञ्चकविषये ईनः स्यात् । समीनः ॥ रात्र्यहः संवत्सराच्च द्विगोर्वा । ६ । ४ । ११० । रात्र्याद्यन्तात्समान्ताच्च द्विगोस्तेन निर्वृत्तइत्यादि पञ्चकविषये ईनो वा स्यात् । द्विरात्रीणाः । द्वैरात्रिकः । दयहीनः । द्वैयह्निकः । द्विसंवत्सरीणः । द्विसांवत्सरिकः । द्विसमीनः । द्वैसमिकः ॥ ११० ॥ वर्षादश्च वा । ६ । ४ । १११ । कालवाचिन्तात् द्विगोस्तेन निर्वृत्ते इत्यादि पञ्चकविषये ईनोऽश्व वा स्यात् । द्विवर्षः । द्विवर्षीणः । द्विवार्षिकः ॥ १११ ॥ प्राणिनि भूते । ६ । ४ । ११२ । . कालार्थवर्षान्ताद्विगोर्भूते प्राणिन्यर्थे अः स्यात् । द्विवर्षो वत्सः प्राणिनीति किम् । द्विवर्षः । द्विवर्षीणः । द्विवार्षिकः सरकः ॥ ११२ ॥ मासाद्वयास य: । ६ । ४ । ११३ । मासान्ताद्विगोर्भूतेऽर्थे यः स्यात् । वयसिगम्ये । द्विमास्यः शिशुः । वयसीति किम् । द्वैमासिको व्याधिः ॥ ११३ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy