SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ सोपालपत्तिः। ४३७ कालार्थात्सप्तम्यन्ताये कार्ये चार्थे भवे इव प्रत्ययाः स्युः । यथा वर्षासु भवं वार्षिकम् । तथा कार्य देयं च ॥९८॥ व्युष्टादिष्वण । ६।४।९९। एभ्यः सप्तम्यन्तेभ्यो देये कार्ये चाण् स्यात् । वैयुष्टम् । नैत्यम् ॥ यथाकथाचाण्णः।६।४। १०० । अस्माहेर्ये कार्ये चार्थे णः स्यात् । याथाकथाचम् ॥ १०॥ तेन हस्ताद्यः । ६।४।१०१ । तेनेति तृतीयान्ताद्धस्ताइये कार्ये च यः स्यात् । हस्त्यम् ॥१०१॥ शोभमाने । ६।४।१०२ । टान्तात् शोभमाने इकण स्यात् । कार्णवेष्टकिकम् मुखम् ॥१०२॥ कर्मवेषाद्यः । ६।४।१०३ । आभ्यां टान्ताभ्यां शोभमाने ऽर्थे यः स्यात् । कर्मण्यं शौर्यम् । वेप्यो नटः ॥ १०३ ॥ कालात्परिजय्यलभ्यकार्यसुकरे।६।४।१०४। कालविशेषार्थाट्टान्तात्परिजग्यादावऽर्थे इकण स्यात् । मासिकोव्याधिः पटः चान्द्रायणं प्रासादो वा ॥१०४ ॥ निवृत्ते । ६।४।१०५। कालार्थाहान्तान्निवृत्तेऽर्थे इकण स्यात् । आह्निकम् ॥ १०५ ।। तं भाविभूते । ६।४।१०६ । तमिति द्वितीयान्तात्कालार्थाद्भाविनि भूते चार्थे इकण् स्यात् । मासिकः उत्सवः ॥१०६॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy