SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति । ६।४। ७९। प्रस्तारसंस्थानाभ्यां तदन्तेभ्यः कठिनान्ताच व्यवहरत्यर्थे इकण स्यात् । प्रास्तारिकः । सांस्थानिकः । कांस्यप्रस्तारिकः । गौसंस्थानिकः । वांशकठिनिकः ॥ ७९ ॥ सङ्ख्यादेश्वार्हदलुचः।६।४।८०। ___अहंदर्थमभिव्याप्य या प्रकृतिवक्ष्यते तस्याः केवलायाः सङ्ख्यापूर्वायाश्च वक्ष्यमाणः प्रत्ययः स्यादिति ज्ञेयम् । नचेत्सा लुगन्ता। चान्द्रा. यणिकः । द्वैचन्द्रायणिकः । अलुचइति किम् । द्विसूर्पण क्रीतेन क्रीतं दिसौप्पिकम् ॥ ८० ॥ गोदानादीनां ब्रह्मचर्ये ।६।४।८१। एभ्यः षष्ठयन्तेभ्यो ब्रह्मचर्येऽर्थे इकण स्यात् । गौदानिकम् । आदित्यवतिकम् ॥ ८१ ॥ चद्रायणं च चरति ।६।४।८२। अस्माद्वितीयान्तागोदानादेश्च चरत्यर्थे इकण स्यात् । चान्द्रायणिका । गौदानिकः ॥ ८२ ॥ देवव्रतादीन डिन् ।६।४। ८३। एभ्यो निर्देशादेव द्वितीयान्तेभ्यश्चरत्यर्थे डिन् स्यात् । देवव्रती । महाव्रती ॥ ८३ ॥ डकश्चाष्टाचत्वारिंशतं वर्षाणाम् ।६।४।८४॥ - वर्षाणामष्टाचत्वारिंशतो द्वितीयान्ताचरत्यर्थे डकोडिन् च स्यात् । अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी ॥ ८४ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy