SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । ४३३ श्राणामांसौदनादिको वा । ६ । ४ । ७१ । आभ्यां तदस्मै नियुक्तं दीयते इति विषये इकः प्रत्ययो वा स्यात् । श्राणिका । श्राणिकी । मांसौदनिका | मांसौदनिकी ॥ ७१ ॥ भक्तौदनाद्वा णिकट् । ६ । ४ । ७२ । आभ्यां यथासङ्ख्यमणिकटौ वा स्याताम् । तदस्मै नियुक्तं दीयते इति विषये । भाक्तः । औदनिकी | भाक्तिकः । औदनिकः ॥ ७२ ॥ नवयज्ञादयोऽस्मिन् वर्त्तन्ते। ६।४।७३। एभ्यः प्रथमान्तेभ्यो वर्त्तन्ते इत्युपाधिभ्योऽस्मिन्निति सप्तम्यर्थे इकण स्यात् । नावयज्ञिकः । पाकयज्ञिकः ॥ ७३ ॥ तत्र नियुक्ते । ६ । ४ । ७४। तत्रेति सप्तम्यन्तान्नियुक्तेऽर्थे इकणू स्यात् । शौल्कशालिकः ॥ ७४ ॥ अगारान्तादिकः । ६ । ४ । ७५ । अस्मात्तत्र नियुक्ते इकः स्यात् । देवागारिकः ॥ ७५ ॥ अदेशकालादध्यायिनि । ६ । ४ । ७६ । अध्ययनस्य यो प्रतिषिद्धौ देशकालौ तदर्थात् सप्तम्यन्तादध्यायिन्यर्थे इकण स्यात् । आशुचिकः । सान्ध्यिकः ॥ ७६ ॥ निकटादिषु वसति । ६ । ४ । ७७ । एभ्यः सप्तम्यन्तेभ्यो वसत्यर्थे इकण स्यात् । नैकटिकः । आरण्यिको भिक्षुः । वार्क्षमूलिकः ॥ ७७ ॥ सतीर्थ्यः । ६ । ४ । ७८। समानतीर्थात्तत्र वसत्यर्थे यो निपात्यते समानस्य च स भावः । सतीर्थ्यः ॥ ७८ ॥ ५५
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy