SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ইহানুহাশয় शक्तियष्टेष्टीकण ।६।४।६४। आभ्यां तदस्य प्रहरणमिति विषये टीकण स्यात् । शाक्तीकी । याष्टीकी ।। ६४ ॥ वेष्ट्यादिभ्यः।६।४।६५। एभ्यस्तदस्य प्रहरणमित्यर्थे टीकण वा स्यात् । ऐष्टीकी । ऐष्टिकी। ऐषीकः । ऐषिकः ॥६५॥ नास्तिकास्तिकदौष्टिकम् ।६।४।६६। एते तदस्येत्यर्थे इकणन्ता निपात्यन्ते । नास्तिकः । आस्तिकः । दैष्टिकः ॥ ६६ ॥ वृत्तोऽपपाठोऽनुयोगे।६।४।६७। प्रथमान्तात्षष्ठ्यर्थे इकण स्यात् । तच्चेदनुयोगविषये वृत्तोऽपपाठः । ऐकान्यिकः ॥ ६७॥ बहुस्वरपूर्वादिकः। ६।४।६८। बहुवरं पूर्वपदं यस्य तस्मात्प्रथमान्तात् षष्ठ्यर्थे इकः स्यात् । तच्चे. परीक्षायां वृत्तोऽपपाठः । एकादशान्यिकः ॥ ६८॥ भक्ष्यं हितमस्मै ।६।४।६९। प्रथमान्तादस्मै इति चतुर्थ्यर्थे इकण स्यात् । तच्चेत् भक्ष्यं हितम् । आपूपिकः ॥ ६९ ॥ नियुक्तं दीयते ।६।४।७०। प्रथमान्ताच्चतुर्थ्यर्थे इकण स्यात् । तच्चेन्नियुक्तमऽव्यभिचारेण नित्यं वा दीयते । आयभोजनिकः ॥७०॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy