________________
स्वोषज्ञलघुत्तिः ।
४३१ शलालुनो वा ।६।४।५६। अस्मात्तदस्य पण्यमिति विषये इकट् वा स्यात् । शलालुकी । शालालुकी ॥ ५६ ॥
शिल्पम् । ६।४।५७।। प्रथमान्तादस्येत्यर्थे इकण स्यात्। तच्छिल्पं चेत् नार्तिकः॥५७॥
मड्डुकझर्झराहाऽण । ६।४।५८ । . . आभ्यां तदस्य शिल्पमिति विषये ऽण वा स्यात् । माड्डुकः।माड्डुकिकः । झाझरः । झाझरिकः ॥ ५८ ॥
शीलम् । ६।४। ५९। प्रथमान्ताच्छीलार्थात् षष्ठ्यर्थे इकण स्यात् । आपूपिकः ॥ ५९ ॥ अस्थाच्छत्रादेर । ६।४।६०।
अडन्तात्स्थश्छत्रादेश्च तदस्य शीलमिलि विषयेऽञ स्यात् । आस्थः। छात्रः । तापसः ॥ ६०॥
तूष्णीकः । ६।४।६१। तूष्णीमस्तदस्य शीलमिति विषये कोम लुक्च स्यात् । तूष्णीकः॥ ६१॥
प्रहरणम् ।६।४।६२ । प्रथमन्तात् षष्ठयर्थे इकण स्यात् । तत्पहरणं चेत् । आसिकः ॥
परश्वधाहाण । ६।४।६३। अस्मात्तदस्य प्रहरणमिति विषये ऽण वा स्यात् । पारश्वधः। पारसधिकः ॥ ६३ ॥