SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ १० हैमशब्दानुशासनस्य सेनाया वा । ६।४।४८। अस्माद्वितीयान्तात्समवेते ण्यो वा स्यात् । सैन्यः। सैनिकः ॥४८॥ धर्माधर्माच्चरति ।६।४। ४९ । आभ्यां द्वितीयान्ताभ्यां चरत्यर्थे इकण स्यात् । धार्मिकः । आधर्मिकः ॥ ४९ ॥ षष्ट्या धर्थे । ६।४।५०। षष्ठ्यन्ताद्धर्मादनपेते इकण स्यात् । शौल्कशालिकम् ॥ ५० ॥ ऋनरादेरण।६।४। ५१ । - ऋदन्तानरांदेश्च षष्ठयन्ताद्धर्थेऽण् स्यात् । नारं नरस्य धर्म्यम् । नारं माहिषम ॥ ५१॥ विभाजयितृविशसितुर्णाङ्लुक् च।६।४।५२। आभ्यां षष्ठयन्ताभ्यां धर्येऽण स्यात् । तद्योगे विभाजयितुर्णिलुक विशशितुश्चेड् लुक् च । वैभाजित्रम् । वैशस्त्रम् ॥ ५२ ॥ अवक्रये।६।४। ५३। . षष्ठगन्तादवक्रेये भाटकेऽर्थे इकण स्यात् । आपणिकः ॥ ५३ ॥ तदस्य पण्यम् । ६।४।५४। तदिति प्रथमान्ताद्विक्रेयार्थादस्येति षष्ठयर्थे इकण स्यात् । तत्प्रथमान्तं पण्यं चेत् । आपूपिकः ॥ ५४ ॥ किशरादेरिकट ।६।४।५५। एभ्यस्तदस्य पण्यमिति विषये इकट् स्यात् । किशरिकी। तगरिकः॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy