SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिः । ४२९ माथ उत्तरपदं यस्य तस्मात्पदव्याक्रन्दाभ्यां च द्वितीयान्ताभ्यां च धावत्यर्थे इकण स्यात् । दाण्डमाथिकः । पादविकः । आक्रन्दिकः ॥ पश्चात्यनुपदात् । ६ । ४ । ४१ । पश्चादर्थादनुपदाद्वितीयान्तात् धावतीकण स्यात् । आनुपदिकः॥ सुस्नातादिभ्यः पृच्छति । ६ । ४ । ४२ । एभ्यो द्वितीयान्तेभ्यो पृच्छत्यर्थे इकण स्यात् । सौस्नातिकः । सौखरात्रिकः ॥ ४२ ॥ प्रभूतादिभ्यो ब्रुवति । ६।४।४३। एभ्यो द्वितीयान्तेभ्यो ब्रुत्रत्यर्थे इकण् स्यात् । प्राभूतिकः । पार्याप्तिकः ॥ ४३ ॥ माशब्दइत्यादिभ्यः । ६।४।४४। एभ्यो ब्रुवतीकण स्यात् । माशब्दिकः । कार्यशब्दिकः ॥ ४४ ॥ शाब्दिकदार्दरिकला लाटिककौक्कुटि कम् । ६ । ४ । ४५ । एते इकणन्ता निपात्यन्ते । शाब्दिको वैयाकरणः। दार्दरिको वादित्रकृत् । लालाटिकः प्रमत्तः सेवाकृत् । कौक्कुटिको भिक्षुः ॥४५ ॥ समूहार्थात्समवेते । ६ । ४ । ४६ । अस्माद्वितीयान्तात्समवेतेऽर्थे इकण स्यात् । सामूहिकः । सामाजिकः ॥ ४६ ॥ पर्षदो ण्यः । ६ । ४ । ४७ । अस्माद्दितीयान्तात्समवेते ण्यः स्यात् । पार्षद्यः ॥ ४७ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy