SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४२८ हैमशदानुशासनस्य . अस्माहितीयान्तात्तिष्ठति प्रति चेकण स्यात् । पारिपन्थिकश्चौरः।। परिपथात् । ६।४।३३। अस्माद्वितीयान्तात्तिष्ठत्यर्थे इकण स्यात् । पारिपन्थिकः ॥३३॥ अवृद्धाहुति गर्यो । ६।४।३४। द्वितीयान्तादृद्धिवर्जानिन्ये गृह्णतीकण स्यात् । द्वैगुणिकः ॥ कुसीदादिकट् । ६।४। ३५ । अस्माद्वितीयान्तानिन्द्ये गृह्णतीकट् स्यात् । कुसीदिकी ॥ ३५॥ दशैकादशादिकश्च । ६।४।३६ । अस्माद् द्वितीयान्तानिन्छ गृह्णतीक इकट् च स्यात् ।दशैकादशिका । दशैकादशिकी ॥ ३६॥ अर्थपदपदोत्तरललामप्रतिकण्ठात्।६।४।३७॥ अर्थात्पदात्पदशब्द उत्तरपदं यस्य तस्माल्ललामप्रतिकष्ठाभ्यां च द्वितीयान्ताभ्यां गृह्णतीकण स्यात् । आर्थिकः । पादिकः। पौर्वपदिकः। लालामिकः । प्रातिकण्ठिकः ॥ ३७॥ परदारादिभ्यो गच्छति ।६।४।३८ । एभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थे इकण स्यात् । पारदारिकः । गौरुदारिकः ॥ ३८॥ प्रतिपथादिकश्च ।६।४।३९ । अस्माद्वितीयान्तानच्छतीक इकण च स्यात् । प्रतिपथिकः । प्रातिपथिकः ॥ ३९॥ माथोत्तरपदपदव्याक्रन्दाद्धावति।६।४।४०॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy