SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ स्वीपल वृत्तिः । विवधवीवधाद्वा । ६ । ४ । २५ । आभ्या तेन हरतीकद वा स्यात् । विवधिकी । ववधिकी । वैवधिकः ।। २५ । ४२७ कुटिलिकाया अण । ६ । ४ । २६ । अस्माद्दान्ताद्धरत्यण् स्यात् । कौटिलिकः कर्मारादिः ॥ २६ ॥ ओजः सहोम्भसो वर्त्तते । ६ । ४ । २७ । एम्यष्टान्तेभ्यो वर्त्तते इत्यर्थे इकण स्यात् । औजसिकः । साहसिकः । आम्भसिकः ॥ २७ ॥ तं प्रत्यनोर्लोमेपकूलात् । ६ । ४ । २८ । तमिति द्वितीयान्तात् प्रत्यनुपूर्वलो मे पकूलान्ताद्वर्त्तते इत्यर्थे इक स्यात् । प्रातिलोमिकः । आनुलोमिकः । प्रातीपिकः । आन्वीपिकः । प्रातिकूलिकः । आनुकूलिकः ॥ २८ ॥ परेर्मुखपाश्वत । ६ । ४ । २९। परिपूर्वमुखपाशन्ताद्वितीयान्ताद्वर्त्तते इत्यर्थे इकण स्यात् । पारि मुनिः । पारिपारिकः ॥ २९ ॥ रक्षदुञ्छतोः । ६ । ४ । ३० । द्वितीयान्तादनयोरिकण् स्यात् । नागरिकः । बादरिकः ॥ ३० ॥ पक्षिमत्स्यमृगार्थाद् घ्नति । ६ । ४ । ३१ । पक्ष्याद्यर्थात् द्वितीयान्ताद् घ्नत्यर्थे इकण स्यात् । पाक्षिकः। मात्स्यिकः । मार्गिकः ।। ३१ ॥ परिपन्थात्तिष्ठति च । ६ । ४ । ३२ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy