SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ . ४२० हैमशब्दानुशासनस्य पुराणे कल्पे।६।३।१८७। टान्तात्सोक्ते पुराणे कल्पे णिन् स्यात् । पैङ्गीकल्पः ॥१८७॥ काश्यपकौशिकावेदवच्च ।६।३।१८८ । आभ्यां तेन प्रोक्त पुराणे कल्पे णिन् स्यात् । वेदवच्चकार्यमस्मिन् । काश्यपिनः । कौशिकिनः । काश्यपको धर्मः॥१८८॥ शिलालिपाराशर्यान्नटभिनुसूत्रे।६।३।१८९। आभ्यां तेन प्रोक्ते यथासङ्ख्यं नटसूत्रे भिक्षुसूत्रे च णिन् स्यात् । वेदवच्चकार्यमस्मिन् । शैलालिनो नटाः । पाराशरिणो भिक्षवः॥१८९॥ कृशाश्वकर्मन्दादिन् ।६।३।१९० । आभ्यां तेन प्रोक्ते यथासङ्ख्यं नटसूत्रे भिक्षुसत्रे चन स्यात् । वेदवच्च कार्यमस्मिन् । कृशाश्विनो नटाः । कर्मन्दिनो भिक्षवः ॥ १९०॥ उपज्ञाते ।६।३।१९१ । प्रागुपदेशाद्विनाज्ञाते टान्ताद्यथाविहितं प्रत्ययः स्यात् । पाणिनीयं शास्त्रम् ॥१९१॥ कृते ।६।३।१९२ । . टान्तात् कृतेऽर्थे यथाविहितं प्रत्ययाः स्युः। शैवो ग्रन्थः। सिद्धसेनीयः स्तवः ॥ १९२ ॥ नाम्नि मक्षिकादिभ्यः ।।३।१९३। एभ्यष्टान्तेभ्यो यथाविहितं कृते प्रत्ययः स्यात् । माक्षिकं मधु । सारघम् ।।१९३॥ कुलालादेरका ।६।३।१९४ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy