SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४२१ स्वोपज्ञलघुवृत्तिः। एभ्यस्तेन कृतेऽकञ् स्यात् । नानि । कौलालकं घटादिमाण्डम् । वारुटकम् सूर्पपिटकादि ॥१९४ ॥ सर्वचर्मण ईनेनौ ।६।३।१९५। तेन कृते नाम्नि स्याताम । सर्वचक्षणः । सार्वचक्षणः ॥१९५॥ उरसोयाऽणौ।६।३।१९६। तेन कृते स्याताम् । नाम्नि । उरस्यः । औरसः ॥१९६॥ ... छन्दस्यः ।६।३।१९७। छन्दसस्तेन कृते यो नाम्नि निपात्यः ॥१९७॥ अमोऽधिकृत्यग्रन्थे । ६।३।१९८ । द्वितीयान्तादधिकृत्य कृते ग्रन्थे यथाविहितं प्रत्ययः स्यात् । भाद्रः । - ज्योतिषम् । ६।३।१९९। ज्योतिषोऽमोऽधिकृत्य कृते ग्रन्थेऽण् । वृद्ध्यभावश्च निपात्यः ॥१९९।। शिशुक्रन्दादिभ्य ईयः । ६।३।२००। एभ्यो ऽमोऽधिकृत्य कृते ग्रन्थे ईयः स्यात्। शिशुक्रन्दीयः। यमसभीयो प्रन्थः ॥२० ॥ द्वन्द्वात्प्रायः।६।३।२०१ । द्वन्द्वादमोऽधिकृत्य कृते ग्रन्थे प्राय ईयः स्यात् । वाक्यपदीयम् । प्रायइति किम् । दैवासुरम् ॥२०१॥ अभिनिष्कामतिद्वारे।६।३। २०२। अमन्ताद्वारेनिर्गच्छत्यर्थे यथोक्तं प्रत्ययः स्यात् । माथुरम्। नादेयम्। राष्ट्रियं द्वारम् ॥ २०२॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy