SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ४१८ हैमशब्दानुशासनस्य ____ आभ्यां गोत्रार्थाभ्यां तस्येदमित्यर्थेऽण् स्यात्। कौपिञ्जला शिष्याः। हास्तिपदाः ॥ १७१ ॥ सङ्घघोषाङ्कलक्षणेऽञ्यजिनः।६३।१७२। एतदन्तागोत्रार्थात्तस्येदमर्थे सङ्घादावण स्यात् । वैदः सङ्घादिः । वैदं लक्षणम् । एवं गार्गः । गार्गम् । दाक्षः । दाक्षम् ॥ १७२ ॥ शाकलादकञ्च।६।३।१७३ । आस्मात्तस्येदमर्थे सङ्घादावऽकञ् अण् च स्यात् । शाकलकः । शाकला सङ्घादिः । शाकलकम् । शाकलं लक्षणम् ॥ १७३ ॥ गृहेऽग्नीधोरण घश्च।६।३।१७४। अग्नीधस्तस्येदमर्थे गृहरण स्यात् । धश्च । आग्नीध्रम् ॥१७॥ रथात्सादेश्च वोदऽङ्गे।६।३।१७५। रथात्केवलात्सपूर्वाच्च तस्येदमर्थे रथस्य वोढर्यङ्ग एव च प्रत्ययः स्यात् । रथ्योऽश्वः । रथ्यं चक्रम् । द्विरथोऽश्वः । आश्वरथं चक्रम् ।। यः।६।३।१७६ । रथात्केवलात्सादेश्च तस्येदमर्थे यः स्यात् । रथ्यः । द्विरथ्यः॥१७६॥ पत्रपूर्वादऽज्ञ । ६।३।१७७। वाहनपूर्वाद्रथात्तस्येदमर्थे ऽञ् स्यात् । आश्वरथं चक्रम् ॥१७७॥ वाहनात् । ६।३।१७८ । वाहनार्थात्तस्येदमर्थेऽञ् स्यात् । औष्ट्रो रथः । हास्तः ॥१७८॥ वाह्यपथ्युपकरणे । ६।३।१७९ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy