SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ स्त्रोपज्ञालवृत्तिः। अदेवासुरादिभ्यो वैरे।६।३।१६४। देवासुरादिव द्वन्द्वात्तस्येदमर्थे वैरे अकल् स्यात् । बाभ्रवशालकायनिका । अदेवादीति किम् । दैवासुरम् । राक्षोमुरम् ॥ १६४ ॥ नटान्नृत्ते ज्यः।६।३।१६५। नटात्तस्येदमर्थे नृत्ते ज्यः स्यात् । नाट्यम् ॥ १६५ ॥ छन्दोगौक्त्थिकयाज्ञिकबड्चाच्च धर्माम्ना - यसंघे । ६।३।१६६ । एभ्यो नटाच्च तस्येदमर्थे धर्मादौ ञ्यः स्यात् । छान्दोग्यम् धर्मादि । औक्त्थिक्यम् । याज्ञिक्यम् । बाढच्यम् । नाट्यम् ॥ १६६ ॥ आथर्वणिकादणिकलुक्च ।६।३।१६७। अस्मात्तस्यदमर्थे धर्मादौ अण् स्यादिकलुक्च । आथर्वणः॥१६७।। चरणादकञ् ।६।३।१६८। . चरणः कठादिः । तदर्थात्तस्येदमर्थे धर्मादावकञ् स्यात् । काठको धर्मादिः । चारककः ॥ १६८ ॥ गोत्राददण्डमाणवशिष्ये । ६।३।१६९। गोत्रार्थात्तस्येदमर्थे दण्डमाणवशिष्यवर्जे ऽकञ स्यात् । औपगवकम्। अदण्डेत्यादिति किम् । काण्वा दण्डमाणवाः शिष्या वा ॥१६९॥ रैवतिकादेरीयः । ६।३।१७० । एभ्यो गोत्राऽर्थेभ्यस्तस्येदमर्थे ईयः स्यात् । खतिकीयाः शिष्याः। गौरग्रीवीयं शकटम् ॥ १७० ॥ कौपिञ्जलहास्तिपदादण् । ६।३।१७१।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy