SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य एभ्यस्ततआगतेऽण स्यात् । शौण्डिफम् । औदपानम् ॥१५४ ॥ गोत्रादङ्कवत् । ६।३।१५५। गोत्रार्थाचतआगतेऽङ्के इव प्रत्ययः स्यात् । वैदम् । औपगवकम्॥ नृहेतुभ्यो रूप्यमयटौ वा।६।३।१५६। पुमर्थाद्धेत्वर्थाच्च ततआगते एतौ वा स्याताम् । चैत्ररूप्यम् । चैत्रमयम् । चैत्रीयम् । समरूप्यम् । सममयम् । समीयम् ॥ १५६ ॥ प्रभवति । ६।३।१५७। पञ्चम्यन्तात्मागुपलम्बे यथाविहितं प्रत्ययाः स्युः। हैमवती गङ्गा॥ वैडूर्यः।६।३। १५८ । विडूरात्ततः प्रभवति व्यः स्यात् । वैडूर्यो माणिः ॥ १५८॥त् । त्यदादेर्मयट् ।६।३।१५९। एभ्यस्ततः प्रभवति मयद स्यात् । तन्मयम् । भवन्मयी ।। तस्येदम् । ६।३।१६०। याने तस्येति षष्ठयन्तादिदमित्यर्थे यथाविहितं प्रत्ययाः स्युः । माथे दैत्यम् । कालेयम् । नादेयम् । पारीणः। मानवीयः ॥ १६०॥ हलसीरादिकण। ६।३।१६१। आभ्यां तस्येदमर्थे इकण स्यात् । हालिकम् । सैरिकम् ॥१६१ ॥ समिधआधाने टेन्यण ।६।३।१६२। समिधस्तस्येदमाधानमित्यर्थे टेन्यण स्यात् । सामिधेन्यो मन्त्रः ॥ विवाहे द्वन्द्वादकल् ।६।३। १६३। द्वन्द्वात्तस्येदमर्थे विवाहेऽकल् स्यात् । अत्रिभरद्वाजिका ॥ १६३ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy