SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य __ अस्मात्तत्रभवे इकः स्यात् । रूढौ गम्यायाम्। अन्तःपुरिका। रूढाविति किम् । आन्तःपुरः ॥ १४०॥ कर्णललाटात्कल् । ६।३।१४१ । __ आम्यां तत्रभवे कल् स्यात् । तदन्तस्य रूढौ । कर्णिका कर्णाभभरणम् । ललाटिका ललाटमण्डनम् ॥ १४१॥ तस्य व्याख्याने च ग्रन्थात् ।६।३।१४२। तस्येति षष्ठ्यन्तादयाख्यानेऽर्थे सप्तम्यन्ताच्च भवे ग्रन्थार्थाद्यथाविहितं प्रत्ययः स्यात् । कार्त्तम्। प्रातिपदिकीयं व्याख्यानं भवं वा ॥ १४२ ॥ प्रायोबहुस्वरादिकण । ६।३।१४३।। बहुस्वराद्रन्थार्थात्तस्य व्याख्याने तत्रभवे च प्राय इकण् स्यात् । पात्वणत्विकम् । प्रायो ग्रहणात्साहितम् ॥१४३॥ ऋगृद्विस्वरयागेभ्यः। ६।३।१४४। ... ऋचन्तात् ऋदन्तादिस्वराद्यागार्थेभ्यश्च ग्रन्थवृत्तिभ्यस्तस्य व्याख्याने तत्रभवे चेकण स्यात् । आर्चिकम् । चातुर्योतकम् । आङ्गिकम् । राजसूयिकम् ॥१४॥ ऋषेरध्याये।६।३।१४५। ऋष्यर्थाद्वन्थवृत्तेस्तस्य व्याख्याने तत्रभवे चाऽध्याये इकण स्यात् । वाशिष्ठिको ऽध्यायः । अध्यायइति । किम् । वाशिष्ठी ऋक् ॥ १४५॥ पुरोडाशपौरोडाशादिकेकटौ।६।३।१४६। आभ्यां ग्रन्थार्थाभ्यां तस्य व्याख्याने तत्रभवे इक् इकट् च स्यात् । पुरोडाशिका । पुरोडाशिकी। पौरोडाशिका । पौरोडाशिकी ॥१४६ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy